शुक्रवार, 1 दिसंबर 2023

सर्व प्रथम शांति पाठ स्वस्त्ययन भद्र सूक्त

 

भद्र सूक्त-मांगलिक कार्य मे सर्व प्रथम शांति पाठ स्वस्त्ययन

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । 

देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
 देवानां भद्रा सुमतिर्ऋजूयतां देवानारातिरभि नो निवर्तताम् ।
 देवानांऽ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ।
 तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । 
अर्यमणं वरुण सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥

तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । 

तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥

 तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।

 पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।

पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः । 

अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥

 भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

 स्थिरैरङ्गैस्तुष्टुवा - सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ 

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ 

अदितिर्द्यौ रदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।

 विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ।। (शु य० २५ । १४-२३)

द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।

 वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ।।(शु० य० ३६ । १७)

यतो यतः समीहसे ततो नो अभयं कुरु ।

 शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु ।। (शु य० ३६ । २२)
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव॥


ॐ गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वँग् हवामहे

 निधीनां त्वा निधीपति ग्वँग् हवामहे वसो मम। 

आहमजानि गर्भधमा त्वमजासि गर्भधम्॥
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।

 ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥

श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमा महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृ-पितृ-चरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

ॐ सिद्धि बुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें